मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १३, ऋक् २

संहिता

पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत ।
सु॒ष्वा॒णं दे॒ववी॑तये ॥

पदपाठः

पव॑मानम् । अ॒व॒स्य॒वः॒ । विप्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।
सु॒ष्वा॒णम् । दे॒वऽवी॑तये ॥

सायणभाष्यम्

हे अवस्यवो रक्षणकामा उद्गात्रादयो यूयं पवमानं शोधकं विप्रंविशेषेण देवानांप्रीणयितारं विप्रवच्छुद्धंवा । अथवा विप्रइति मेधाविनाम । मेधाविनं देववीतये देवपानाय सुष्वाणं सूयमानं अभिप्रगायत आभिमुख्येन प्रकर्षेण स्तुत ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः