मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १३, ऋक् ३

संहिता

पव॑न्ते॒ वाज॑सातये॒ सोमा॑ः स॒हस्र॑पाजसः ।
गृ॒णा॒ना दे॒ववी॑तये ॥

पदपाठः

पव॑न्ते । वाज॑ऽसातये । सोमाः॑ । स॒हस्र॑ऽपाजसः ।
गृ॒णा॒नाः । दे॒वऽवी॑तये ॥

सायणभाष्यम्

पवन्ते क्षरन्ते सोमाः । किमर्थं वाजसातये अन्नस्यलाभाय । कीदृशाः सहस्रमाजसो बहुलाः पातॄणां बलप्रदाइत्यर्थः । गृणानाः कर्मणिकर्तृप्रत्ययः स्तूयमानाः । पुनः किमर्थं देववीतये देवानां वीतिर्गतिः प्राप्तिर्भक्षणंवा यस्मिन् सदेववीतिर्यज्ञः तदर्थं यज्ञसिद्धिः साक्षात् प्रयोजनं तद्वारा वाजलाभइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः