मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १३, ऋक् ४

संहिता

उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ ।
द्यु॒मदि॑न्दो सु॒वीर्य॑म् ॥

पदपाठः

उ॒त । नः॒ । वाज॑ऽसातये । पव॑स्व । बृ॒ह॒तीः । इषः॑ ।
द्यु॒ऽमत् । इ॒न्दो॒ इति॑ । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

उतापिच नोस्माकं वाजसातये अन्नलाभाय हे इन्दो सोम बृहतीरिषः महतीरसधाराः द्युमत् दीप्तिमत् सुवीर्यं शोभनसामर्थ्यंच पवस्व क्षर । शोभनसामर्थ्योपेताधाराः पवस्वेत्यर्थः । अथवा वाजसातये संग्रामाय बृहतीरिषो द्युमत्सुवीर्यं संपादयितुं पवस्वेति योज्यम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः