ते नः॑ सह॒स्रिणं॑ र॒यिं पव॑न्ता॒मा सु॒वीर्य॑म् ।
सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥
ते । नः॒ । स॒ह॒स्रिण॑म् । र॒यिम् । पव॑न्ताम् । आ । सु॒ऽवीर्य॑म् ।
सु॒वा॒नाः । दे॒वासः॑ । इन्द॑वः ॥
ते इन्दवः सोमाः नोस्माकं सहस्रिणं सहस्रसंख्योपेतं रयिं धनं सुवीर्यंचापवन्ताम् । कीदृशास्ते सुवानाः सूयमानाः देवासोद्योतनादिगुणकाः ॥ ५ ॥