मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १३, ऋक् ७

संहिता

वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नवः॑ ।
द॒ध॒न्वि॒रे गभ॑स्त्योः ॥

पदपाठः

वा॒श्राः । अ॒र्ष॒न्ति॒ । इन्द॑वः । अ॒भि । व॒त्सम् । न । धे॒नवः॑ ।
द॒ध॒न्वि॒रे । गभ॑स्त्योः ॥

सायणभाष्यम्

वाश्राः शब्दयन्तः इन्दवः सोमाः अभ्यर्षन्ति अभिगच्छन्ति पात्रंप्रति । वाश्राः शब्दकारिण्योधेनवोन ता यथा शब्दयन्त्योवत्सं प्रत्यागच्छन्ति तद्वत् तएव गभस्त्योर्बाह्वोः दधन्विरे ध्रियते च ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः