मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १३, ऋक् ८

संहिता

जुष्ट॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् ।
विश्वा॒ अप॒ द्विषो॑ जहि ॥

पदपाठः

जुष्टः॑ । इन्द्रा॑य । म॒त्स॒रः । पव॑मान । कनि॑क्रदत् ।
विश्वाः॑ । अप॑ । द्विषः॑ । ज॒हि॒ ॥

सायणभाष्यम्

इन्द्राय जुष्टः पर्याप्तोमत्सरः सोमोभवतीतिशेषः । मत्सरः सोमोमन्दतेस्तृप्तिकर्मणइति निरुक्तम् । हे पवमान त्वं कनिक्रदत् शब्दयन् विश्वाद्विषः सर्वानस्माकं द्वेष्टृनपजहि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः