मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १४, ऋक् १

संहिता

परि॒ प्रासि॑ष्यदत्क॒विः सिन्धो॑रू॒र्मावधि॑ श्रि॒तः ।
का॒रं बिभ्र॑त्पुरु॒स्पृह॑म् ॥

पदपाठः

परि॑ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । श्रि॒तः ।
का॒रम् । बिभ्र॑त् । पु॒रु॒ऽस्पृह॑म् ॥

सायणभाष्यम्

परिप्रासिष्यदत् परिप्रस्यन्दते कविर्मेधावी सोमः सिन्धोरूर्मौ तरंगे वसतीवर्युदकरसे अधिश्रितः आश्रितः पुरुस्पृहं बहुभिः स्पृहणीयं कारं शब्दं बिभ्रत् धारयन् परिस्यन्दतइति संबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः