मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १४, ऋक् २

संहिता

गि॒रा यदी॒ सब॑न्धव॒ः पञ्च॒ व्राता॑ अप॒स्यवः॑ ।
प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम् ॥

पदपाठः

गि॒रा । यदि॑ । सऽब॑न्धवः । पञ्च॑ । व्राताः॑ । अ॒प॒स्यवः॑ ।
प॒रि॒ऽकृ॒ण्वन्ति॑ । ध॒र्ण॒सिम् ॥

सायणभाष्यम्

सबन्धवः समानबन्धनाः पंचव्राताः पंचजनाः अपस्यवः कर्मेच्छवोयद्यदाईमेनं धर्णसिं धारकं सोमं गिरा स्तुत्या परिष्कृण्वंति अलंकुर्वन्ति अस्योत्तरत्रान्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः