मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १४, ऋक् ३

संहिता

आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत ।
यदी॒ गोभि॑र्वसा॒यते॑ ॥

पदपाठः

आत् । अ॒स्य॒ । शु॒ष्मिणः॑ । रसे॑ । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ ।
यदि॑ । गोभिः॑ । व॒सा॒यते॑ ॥

सायणभाष्यम्

आत् परिष्करणानन्तरमेव शुष्मिणः बलवतोस्यसोमस्य रसे विश्वेदेवा अमत्सत अमाद्यन्त । यदि यदा गोभिः गोविकारैः विकारे प्रकृतिशब्दः क्षीरादिभिः वसायते आच्छाद्यते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः