मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १४, ऋक् ४

संहिता

नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ ।
अत्रा॒ सं जि॑घ्नते यु॒जा ॥

पदपाठः

नि॒ऽरि॒णा॒नः । वि । धा॒व॒ति॒ । जह॑त् । शर्या॑णि । तान्वा॑ ।
अत्र॑ । सम् । जि॒घ्न॒ते॒ । यु॒जा ॥

सायणभाष्यम्

अयंसोमो निरिणानः दशापवित्रादधोगच्छन् विधावति विविधं धावति । यदा तान्वा तनु दशापवित्रवस्त्रं तत्संबन्धीनि शर्याणि द्वाराणि जहत् अधः सरति । अत्रास्मिन्यज्ञे युजा सखिभूतेनेन्द्रेणसह संजिघ्नते संगतोभवति वस्त्रसुषिराद्विनिर्गत्य दशापवित्रादधः सरन् पात्रं विविधंगच्छन् होमद्वारेणेन्द्रेण संगतोभवतीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः