मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १४, ऋक् ५

संहिता

न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।
गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥

पदपाठः

न॒प्तीभिः॑ । यः । वि॒वस्व॑तः । शु॒भ्रः । न । म॒मृ॒जे । युवा॑ ।
गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥

सायणभाष्यम्

यः सोमोविवस्वतः परिचरणवतो यजमानस्य नप्तीभिः पौत्रस्थानीयाभिः तस्य हस्तः पुत्रः । अंगुलयः पौत्रस्थानीया इत्यभिप्रायः । मामृजे मृज्यते शुभ्रोनदीप्तोश्वोयुवाइव यथा अप्रवृद्धोश्वो मृज्यते स्वपरिचारकैस्तद्वत् । सएव युवा मिश्रणशीलः सोमो निर्निजम् । निर्निगितिरूपनाम । स्वकीयं रूपं गाः न कृण्वानः गोविकारांश्च कुर्वाणोभवतीतिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः