मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १४, ऋक् ८

संहिता

परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा ।
वसू॑नि याह्यस्म॒युः ॥

पदपाठः

परि॑ । दि॒व्यानि॑ । मर्मृ॑शत् । विश्वा॑नि । सो॒म॒ । पार्थि॑वा ।
वसू॑नि । या॒हि॒ । अ॒स्म॒ऽयुः ॥

सायणभाष्यम्

हे सोम दिव्यानि पार्थिवा पार्थिवानिच विश्वानि सर्वाणि वसूनि धनानि परिमर्मृशत् परिमृशन् परिगृह्णन् अस्मयुरस्मान् कामयमानो याहि आगच्छ । एवमभिषुण्वन् रसं संबोध्य ब्रूते ॥ ८ ॥

एषधियेत्यष्टर्चं पंचदशं सूक्तं ऋष्याद्याः पूर्ववत् । एषधियेत्यनुक्रान्तं गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः