मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १५, ऋक् १

संहिता

ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभि॑ः ।
गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥

पदपाठः

ए॒षः । धि॒या । या॒ति॒ । अण्व्या॑ । शूरः॑ । रथे॑भिः । आ॒शुऽभिः॑ ।
गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥

सायणभाष्यम्

एषसोमः शूरोविक्रान्तः अण्व्या अंगुल्याभिषुतो धिया कर्मणा याति गच्छति । कं देशं प्रति उच्यते-इन्द्रस्यनिष्कृतं स्थानं दिवं प्रति रथेभीर- थैराशुभिः शीघ्रगामिभिः गच्छन् इन्द्रेण रथेवस्थाप्य स्वस्थाननयनाय अंगुल्याभिषूयमाणःसन् होमद्वाराग्निनिष्पीडनद्वारा पात्रं वा गच्छतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः