मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १५, ऋक् ३

संहिता

ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था ।
यदी॑ तु॒ञ्जन्ति॒ भूर्ण॑यः ॥

पदपाठः

ए॒षः । हि॒तः । वि । नी॒य॒ते॒ । अ॒न्तरिति॑ । शु॒भ्रऽव॑ता । प॒था ।
यदि॑ । तु॒ञ्जन्ति॑ । भूर्ण॑यः ॥

सायणभाष्यम्

एष सोमो हितो निहितो हविर्धाने विनीयते तस्मात् स्थानात् आहवनीयंप्रति अन्तः तयोर्मध्यदेशे शुभ्रावता शोभावता पथा मार्गेण यदि यदा तुंजन्ति प्रयच्छन्ति देवेभ्यो भूर्णयो भरणशीलाअध्वर्य्वादयः । तदा विनीयत इतिसमन्वयः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः