मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १५, ऋक् ४

संहिता

ए॒ष शृङ्गा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ ।
नृ॒म्णा दधा॑न॒ ओज॑सा ॥

पदपाठः

ए॒षः । शृङ्गा॑णि । दोधु॑वत् । शिशी॑ते । यू॒थ्यः॑ । वृषा॑ ।
नृ॒म्णा । दधा॑नः । ओज॑सा ॥

सायणभाष्यम्

एषसोमः शृंगाणि शृंगवदुन्नतान् अंशून् अभिषवकाले दोधुवत् धूनोति यूथ्यो यूथार्होयूथपति र्वृषा वृषभोयथा शिशीते तीक्ष्णे शृंगे धूनोति तद्वत् । कीदृशएषः ओजसा बलेन नृम्णा नृम्णानि धनानि दधानोस्मदर्थं धारयन् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः