मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १५, ऋक् ५

संहिता

ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभि॑ः ।
पति॒ः सिन्धू॑नां॒ भव॑न् ॥

पदपाठः

ए॒षः । रु॒क्मिऽभिः॑ । ई॒य॒ते॒ । वा॒जी । शु॒भ्रेभिः॑ । अं॒शुऽभिः॑ ।
पतिः॑ । सिन्धू॑नाम् । भव॑न् ॥

सायणभाष्यम्

एषसोमो रुक्मिभिः अध्वर्य्वादिभिः सह ईयते गच्छति । कीदृशएषः वाजी वेजनवान् शुभ्रेभिः शुभ्रैः दीप्तैः अंशुभिर्विशिष्टः अथवा रुक्मिभिरित्ये- तदप्यंशुविशेषणम् । सिधूनां स्यन्दमानानां रसानां पतिर्भवन् य ईयतइति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः