मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १५, ऋक् ६

संहिता

ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ ।
अव॒ शादे॑षु गच्छति ॥

पदपाठः

ए॒षः । वसू॑नि । पि॒ब्द॒ना । परु॑षा । य॒यि॒ऽवान् । अति॑ ।
अव॑ । शादे॑षु । ग॒च्छ॒ति॒ ॥

सायणभाष्यम्

एषसोमो वसून्याच्छादकानि पिब्दना पीडितानि रक्षांसि परुषा पर्वणा अति अतिक्रम्य ययिवान् गच्छन् शादेषु शातनीयेषु रक्षःसु अवगच्छति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः