मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १५, ऋक् ७

संहिता

ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यवः॑ ।
प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥

पदपाठः

ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । उप॑ । द्रोणे॑षु । आ॒यवः॑ ।
प्र॒ऽच॒क्रा॒णम् । म॒हीः । इषः॑ ॥

सायणभाष्यम्

आयवोमनुष्या ऋत्विजः एतं सोमं मर्ज्यं मार्जनीयं उपमृजन्ति निष्पीडयन्तीत्यर्थः । कुत्र द्रोणेषु द्रोणकलशेषु । कीदृशं महीरिषः महान्त्यन्नानि प्रचक्राणं कुर्वाणं प्रभूतरसस्राविणमित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः