मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १५, ऋक् ८

संहिता

ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॑ स॒प्त धी॒तयः॑ ।
स्वा॒यु॒धं म॒दिन्त॑मम् ॥

पदपाठः

ए॒तम् । ऊं॒ इति॑ । त्यम् । दश॑ । क्षिपः॑ । मृ॒जन्ति॑ । स॒प्त । धी॒तयः॑ ।
सु॒ऽआ॒यु॒धम् । म॒दिन्ऽत॑मम् ॥

सायणभाष्यम्

त्यं तं एतमु एतमेव सोमं दशक्षिपो दशांगुलयो मृजन्ति परिचरन्ति । सप्तधीतयः सप्तर्त्विजश्च ऋत्विजोगुलिभिर्मृजन्तीत्यर्थः । कीदृशमेतं स्वायुधं शोभनमायुधं मदिन्तमं मादयितृतमं रक्षोहननसामर्थ्यप्रदर्शनाय स्वायुधशब्दश्रवणम् ॥ ८ ॥

प्रतेसोतारइत्यष्टर्चं षोडशं सूक्तं ऋष्याद्याः पूर्ववत् । प्रतेइत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः