मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १६, ऋक् १

संहिता

प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये ।
सर्गो॒ न त॒क्त्येत॑शः ॥

पदपाठः

प्र । ते॒ । सो॒तारः॑ । ओ॒ण्योः॑ । रस॑म् । मदा॑य । घृष्व॑ये ।
सर्गः॑ । न । त॒क्ति॒ । एत॑शः ॥

सायणभाष्यम्

हे सोम ते तव रसं सोतारः सोमाभिषवकर्तारः ओण्योः रसं लुप्तोपममेतत् द्यावापृथिव्यारसमुदकमिव अथवा ओण्योर्द्यावापृथिव्योर्मध्ये तयोः संबन्धिनंवा रसं प्रस्रावयन्तीतिशेषः । किमर्थं घृष्वये शत्रुघषर्णशीलाय मदाय इन्द्रस्य मदाय अभिषवजनितः सोमः सर्गः सृष्टः एतशोन अश्वइव तक्ति गच्छति पात्रं प्रति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः