मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १६, ऋक् २

संहिता

क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा॑न॒मन्ध॑सा ।
गो॒षामण्वे॑षु सश्चिम ॥

पदपाठः

क्रत्वा॑ । दक्ष॑स्य । र॒थ्य॑म् । अ॒पः । वसा॑नम् । अन्ध॑सा ।
गो॒ऽसाम् । अण्वे॑षु । स॒श्चि॒म॒ ॥

सायणभाष्यम्

वयमभिषोतारः दक्षस्य बलस्य रथ्यं नेतारं अपउदकानि रसान् वसानं आच्छादयन्तं अंधसा श्रयणान्नेन सहितं गोषां गवां सोतारं एवमुक्तलक्षणं सोमं क्रत्वा कर्मणा अण्वेषु अंगुलीषु सश्चिम संयोजयामः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः