मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १६, ऋक् ४

संहिता

प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे॑ अर्षति ।
क्रत्वा॑ स॒धस्थ॒मास॑दत् ॥

पदपाठः

प्र । पु॒ना॒नस्य॑ । चेत॑सा । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।
क्रत्वा॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥

सायणभाष्यम्

चेतसा स्तुत्या पुनानस्य पूयमानस्य अंशीभूतः सोमः पवित्रे दशापवित्रे अर्षति गच्छति । अथ पश्चात् क्रत्वा कर्मणा प्रज्ञानेनवा सधस्थं सहस्थानं द्रोणकलशे आसदत् आसीदति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः