मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १६, ऋक् ५

संहिता

प्र त्वा॒ नमो॑भि॒रिन्द॑व॒ इन्द्र॒ सोमा॑ असृक्षत ।
म॒हे भरा॑य का॒रिणः॑ ॥

पदपाठः

प्र । त्वा॒ । नमः॑ऽभिः । इन्द॑वः । इन्द्र॑ । सोमाः॑ । अ॒सृ॒क्ष॒त॒ ।
म॒हे । भरा॑य । का॒रिणः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां नमोभिर्नमस्कारोपलक्षितैः स्तोत्रैः अथवा अन्नैः सह इन्दवः सोमाः प्रासृक्षत प्रामुवन्ति । किमर्थं महे महते भराय संग्रामाय कीदृशाः कारिणो बलकरणशीलाः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः