मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १६, ऋक् ६

संहिता

पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
शूरो॒ न गोषु॑ तिष्ठति ॥

पदपाठः

पु॒ना॒नः । रू॒पे । अ॒व्यये॑ । विश्वाः॑ । अर्ष॑न् । अ॒भि । श्रियः॑ ।
शूरः॑ । न । गोषु॑ । ति॒ष्ठ॒ति॒ ॥

सायणभाष्यम्

अव्यये अविमये रूपे रूप्यमाणे वस्त्रे पुनानः पूयमानो विश्वाः सर्वाः श्रियः शोभाः अभ्यर्षन् अभिगच्छन् गोषु निमित्तासु शूरोन शूरइव सयथा संग्रामे तिष्ठति तद्वदसौ तिष्ठति पात्रे ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः