मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १६, ऋक् ७

संहिता

दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।
वृथा॑ प॒वित्रे॑ अर्षति ॥

पदपाठः

दि॒वः । न । सानु॑ । पि॒प्युषी॑ । धारा॑ । सु॒तस्य॑ । वे॒धसः॑ ।
वृथा॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ॥

सायणभाष्यम्

दिवोन द्युलोकादन्तरिक्षादिव सानु समुच्छ्रितमुदकं तद्यथा अधोनिपतति तद्वद्वेधसोविधातुः बलस्य कर्तुः सुतस्याभिषुतस्य सोमस्य पिप्युषी आप्याययन्ती धारा व्रथा अनायासेनैव पवित्रे दशापवित्रे अर्षति गच्छति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः