त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ ।
अव्यो॒ वारं॒ वि धा॑वसि ॥
त्वम् । सो॒म॒ । वि॒पः॒ऽचित॑म् । तना॑ । पु॒ना॒नः । आ॒युषु॑ ।
अव्यः॑ । वार॑म् । वि । धा॒व॒सि॒ ॥
हे सोम त्वं विपश्चितं स्तोतारं आयुषु मनुष्येषु मध्ये रक्षसि । अथवा विपश्चितमिन्द्रं प्रीणयितुं तना पुनानः सन् अव्योवारं अवेर्वाले विधावसि विविधं गच्छसि ॥ ८ ॥
प्रनिम्रेनेवेत्यष्टर्चं सप्तदशं सूक्तं ऋष्याद्याः पूर्ववत् । प्रनिम्रेनेवेत्यनुकान्तम् । गतोविनियोगः