मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १७, ऋक् १

संहिता

प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः ।
सोमा॑ असृग्रमा॒शवः॑ ॥

पदपाठः

प्र । नि॒म्नेन॑ऽइव । सिन्ध॑वः । घ्नन्तः॑ । वृ॒त्राणि॑ । भूर्ण॑यः ।
सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ ॥

सायणभाष्यम्

निम्रेन प्रवणेन सिन्ध्वो नद्यइव तथा वृत्राणि शत्रून् घ्र्न्तो भूर्णयः क्षिप्रगमनाः । आशवोव्याप्ताः सोमाः प्रासृग्रं प्रगच्छन्ति द्रोणकलशं प्रति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः