मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १७, ऋक् ४

संहिता

आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते ।
उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥

पदपाठः

आ । क॒लशे॑षु । धा॒व॒ति॒ । प॒वित्रे॑ । परि॑ । सि॒च्य॒ते॒ ।
उ॒क्थैः । य॒ज्ञेषु॑ । व॒र्ध॒ते॒ ॥

सायणभाष्यम्

अयं सोमः कलोअशेष्वाधावति तदर्थं पवित्रे परिषच्यते अध्वर्युभिः उक्थैः स्तोत्रैः यज्ञाषु निमित्तेषु वर्धते प्रवृद्धोभवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः