मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १८, ऋक् १

संहिता

परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः ।
मदे॑षु सर्व॒धा अ॑सि ॥

पदपाठः

परि॑ । सु॒वा॒नः । गि॒रि॒ऽस्थाः । प॒वित्रे॑ । सोमः॑ । अ॒क्षा॒रिति॑ ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

सायणभाष्यम्

अयं सोमः पवित्रे पर्यक्षाः परिक्षरति । सुवानः सूयमानः गिरिष्ठागिरिस्थायी ग्रावसु वर्तमानैत्यर्थः । सत्वं मदेषु मादकेषु स्तोतृषु सर्वधाः सर्वदा असि सर्वस्यधाता दाता वा भवसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः