मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १८, ऋक् २

संहिता

त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः ।
मदे॑षु सर्व॒धा अ॑सि ॥

पदपाठः

त्वम् । विप्रः॑ । त्वम् । क॒विः । मधु॑ । प्र । जा॒तम् । अन्ध॑सः ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

सायणभाष्यम्

हे सोम त्वं पिप्रो विविधं प्रीणयिता विप्रसदृशोवा त्वं च कविर्मेधावी अतस्त्वं अन्धसः अन्नाज्जातं मधु मधुररसं प्रयच्छसीतिरोषः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः