मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १८, ऋक् ३

संहिता

तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत ।
मदे॑षु सर्व॒धा अ॑सि ॥

पदपाठः

तव॑ । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । पी॒तिम् । आ॒श॒त॒ ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

सायणभाष्यम्

हे सोम तव पीतिं पानं विश्वेदेवासोदेवाः सजोषसः समानप्रीतयः सन्तः आशत प्राप्नुवन् । । ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः