मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १९, ऋक् २

संहिता

यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती ।
ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥

पदपाठः

यु॒वम् । हि । स्थः । स्व॑र्पती॒ इति॒ स्वः॑ऽपती । इन्द्रः॑ । च॒ । सो॒म॒ । गोप॑ती॒ इति॒ गोऽप॑ती ।
ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥

सायणभाष्यम्

हे सोम त्वमिन्द्रश्च युवंहि युवांखलु स्वर्पती स्वर्गस्य स्वामिनौ स्थोभवथः । तथा गोपती गवांपालकौ ईशाना ईश्वरौ सन्तौ धियोस्मदीयानि कर्माणि पिप्यतं प्याययतं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः