मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १९, ऋक् ३

संहिता

वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ ।
हरि॒ः सन्योनि॒मास॑दत् ॥

पदपाठः

वृषा॑ । पु॒ना॒नः । आ॒युषु॑ । स्त॒नय॑न् । अधि॑ । ब॒र्हिषि॑ ।
हरिः॑ । सन् । योनि॑म् । आ । अ॒स॒द॒त् ॥

सायणभाष्यम्

वृषा कामानां वर्षकः सोमः आयुषु मनुष्येषु अध्वर्य्वादिषु पुनानः पूयमानः सन् स्तनयन् शब्दंकुर्वन् अधिबर्हिषि अधीति सप्तम्यर्थानुवादी आस्तीर्णे दर्भे हरिः हरितवर्णः सन् योनिं स्वकीयं स्थानं आसदत् आसीदति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः