मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १९, ऋक् ५

संहिता

कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् ।
याः शु॒क्रं दु॑ह॒ते पयः॑ ॥

पदपाठः

कु॒वित् । वृ॒ष॒ण्यन्ती॑भ्यः । पु॒ना॒नः । गर्भ॑म् । आ॒ऽदध॑त् ।
याः । शु॒क्रम् । दु॒ह॒ते । पयः॑ ॥

सायणभाष्यम्

वृषण्यन्तीभ्यः वृषणं सोममात्मनइच्छन्तीभ्यो वसतीवरीभ्यः पुनानः पूयमानो मिश्रयमाणो गर्भं स्वगर्भस्थानीयं रसं कुवित् बहुप्रभूतं आदधत् करोति । याः आपः सुक्रं दीप्तं पयो दुहते स्ववत्साय सोमाय ताभ्योगर्भमादधत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः