मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १९, ऋक् ६

संहिता

उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु ।
पव॑मान वि॒दा र॒यिम् ॥

पदपाठः

उप॑ । शि॒क्ष॒ । अ॒प॒ऽत॒स्थुषः॑ । भि॒यस॑म् । आ । धे॒हि॒ । शत्रु॑षु ।
पव॑मान । वि॒दाः । र॒यिम् ॥

सायणभाष्यम्

हे पवमानसोम उपशिक्ष त्वं समीपे कुरु । कान् अपतस्थुषः अपक्रम्य स्थितान् अस्मदभिमतानित्यर्थः शत्रुष्वस्मद्विरोधिषु भियसं भयं आधेहि कुरु जनय । अस्माकं तेषां शत्रूणां रयिं धनं विदाः विन्दसि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः