मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १९, ऋक् ७

संहिता

नि शत्रो॑ः सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर ।
दू॒रे वा॑ स॒तो अन्ति॑ वा ॥

पदपाठः

नि । शत्रोः॑ । सो॒म॒ । वृष्ण्य॑म् । नि । शुष्म॑म् । नि । वयः॑ । ति॒र॒ ।
दू॒रे । वा॒ । स॒तः । अन्ति॑ । वा॒ ॥

सायणभाष्यम्

हे अभिषूयमाणसोम त्वं शत्रोर्वृष्ण्यं वर्षकं बलं नितिर निपूर्वस्तिरतिर्नाशार्थः नाशय । तथा शत्रोः शुष्मं शोषकं तेजः नितिर तस्यैव वयोन्नंच नितिर कीदृशस्य शत्रोः दूरे वासतः अस्मत्तोदूरे वर्तमानस्य अन्तिवा सतः अन्तिके वर्तमानस्य वा ॥ ७ ॥

प्रकविरिति सप्तर्चं विंशं सूक्तं ऋष्याद्याः पूर्ववत् । प्रकविरित्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः