मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २०, ऋक् २

संहिता

स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोम॑न्त॒मिन्व॑ति ।
पव॑मानः सह॒स्रिण॑म् ॥

पदपाठः

सः । हि । स्म॒ । ज॒रि॒तृऽभ्यः॑ । आ । वाज॑म् । गोऽम॑न्तम् । इन्व॑ति ।
पव॑मानः । स॒ह॒स्रिण॑म् ॥

सायणभाष्यम्

सहिष्म सखलु पवमानः सोमोजरितृभ्यः स्तोतृभ्यः गोमन्तं बहुभिर्गोभिर्युक्तं सहस्रिणं सहस्रसंख्याकं वाजमन्नं आ अभिमुखमिन्वति व्याप्नोति प्रयच्छतीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०