मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २०, ऋक् ३

संहिता

परि॒ विश्वा॑नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती ।
स नः॑ सोम॒ श्रवो॑ विदः ॥

पदपाठः

परि॑ । विश्वा॑नि । चेत॑सा । मृ॒शसे॑ । पव॑से । म॒ती ।
सः । नः॒ । सो॒म॒ । श्रवः॑ । वि॒दः॒ ॥

सायणभाष्यम्

हे सोम त्वं चेतसा स्वकीयेनास्मदनुकूलेन चित्तेन विश्वानि सर्वाणि धनानि परिमृशसे संप्रयच्छसीत्यर्थः । मती मत्यास्मत्स्तुत्या पवसे क्षरसि रसम् । सत्वं हे सोम नोस्मभ्यं श्रवोन्नं विदः देहि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०