मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २०, ऋक् ५

संहिता

त्वं राजे॑व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ ।
पु॒ना॒नो व॑ह्ने अद्भुत ॥

पदपाठः

त्वम् । राजा॑ऽइव । सु॒ऽव्र॒तः । गिरः॑ । सो॒म॒ । आ । वि॒वे॒शि॒थ॒ ।
पु॒ना॒नः । व॒ह्ने॒ । अ॒द्भु॒त॒ ॥

सायणभाष्यम्

हे सीम सुव्रतः सुकर्मा पुनानस्त्वं राजेव गिरोस्मदीयाः स्तुतीः आविवेशिथ आविशसि । हे वह्ने वोढः अद्भुत महन् सोम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०