मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २०, ऋक् ६

संहिता

स वह्नि॑र॒प्सु दु॒ष्टरो॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
सोम॑श्च॒मूषु॑ सीदति ॥

पदपाठः

सः । वह्निः॑ । अ॒प्ऽसु । दु॒स्तरः॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः ।
सोमः॑ । च॒मूषु॑ । सी॒द॒ति॒ ॥

सायणभाष्यम्

ससोमो व्ह्निर्वोढा यज्ञादेः अप्स्वन्तरिक्षे वर्तमानो दुष्टरोदुःखेनान्यैस्तरणीयो मृज्यमानः शोध्यमानो गभस्त्योर्हस्तयोः एवंभूतःसन् सचमूषु पात्रेषु सीदति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०