मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २१, ऋक् १

संहिता

ए॒ते धा॑व॒न्तीन्द॑व॒ः सोमा॒ इन्द्रा॑य॒ घृष्व॑यः ।
म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥

पदपाठः

ए॒ते । धा॒व॒न्ति॒ । इन्द॑वः । सोमाः॑ । इन्द्रा॑य । घृष्व॑यः ।
म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥

सायणभाष्यम्

एतेसोमा इन्द्राय धावन्ति गच्छन्ति । कीदृशाएते इन्दवः क्लेदयितारः दीप्तावा घृष्वयो घर्षणशीलाः मत्सरासो मादयितारः स्वर्विदः स्वर्लोकस्य लंभयितारः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११