मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २१, ऋक् २

संहिता

प्र॒वृ॒ण्वन्तो॑ अभि॒युज॒ः सुष्व॑ये वरिवो॒विदः॑ ।
स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥

पदपाठः

प्र॒ऽवृ॒ण्वन्तः॑ । अ॒भि॒ऽयुजः॑ । सुस्व॑ये । व॒रि॒वः॒ऽविदः॑ ।
स्व॒यम् । स्तो॒त्रे । व॒यः॒ऽकृतः॑ ॥

सायणभाष्यम्

प्रवृण्वन्तः सुवानं प्रकर्षेण संभजन्तः तथा अभियुजः अभियोजयितारः सुष्वये सुष्ठु अभिषवकर्त्रे वरिवोविदः वरिवइति धननाम तस्य लंभयितारः स्वयं स्तोत्रे वयस्कृतोन्नस्यकर्तारः एते धावन्तीति संबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११