मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २१, ऋक् ३

संहिता

वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् ।
सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥

पदपाठः

वृथा॑ । क्रीळ॑न्तः । इन्द॑वः । स॒धऽस्थ॑म् । अ॒भि । एक॑म् । इत् ।
सिन्धोः॑ । ऊ॒र्मा । वि । अ॒क्ष॒र॒न् ॥

सायणभाष्यम्

वृथा अनायासेन क्रीळन्त इन्दवः सोमाः एकमित् एकमेव सधस्थं सहस्थानं द्रोणकलशंवा अभ्यक्षरन् इतिशेषः । सिन्धोरूर्मा वसतीवरीषु व्यक्षरन् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११