मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २१, ऋक् ४

संहिता

ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत ।
हि॒ता न सप्त॑यो॒ रथे॑ ॥

पदपाठः

ए॒ते । विश्वा॑नि । वार्या॑ । पव॑मानासः । आ॒श॒त॒ ।
हि॒ताः । न । सप्त॑यः । रथे॑ ॥

सायणभाष्यम्

एते सोमाः पवमानासः पूयमानाः विश्वानि वार्या वार्याणि वरणीयानि धनानि आशत व्याप्नुवन् । रथे हिताः स्थापितानसप्तयः सप्तयोश्वाइव ते यथा रथमभिमतं देशं प्राप्नुवन्ति तद्धद्धनमस्माकं प्रायच्छन्नित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११