मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २१, ऋक् ५

संहिता

आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ ।
यो अ॒स्मभ्य॒मरा॑वा ॥

पदपाठः

आ । अ॒स्मि॒न् । पि॒शङ्ग॑म् । इ॒न्द॒वः॒ । दधा॑त । वे॒नम् । आ॒ऽदिशे॑ ।
यः । अ॒स्मभ्य॑म् । अरा॑वा ॥

सायणभाष्यम्

हे इन्दवः सोमाः अस्मिन्यजमाने पिशंगं बहुरूपं मणिमुक्ताहिरण्यादिभेदेन नानारूपं वेनं कामयन्तं बहुविधंकामं आदिशे अस्मभ्यमादेशनाय आदधात आयच्छत । योयजमानोस्मभ्यं अरावा अदातृशब्दरहितः संपन्नंसन् प्रयच्छति प्राप्तकामएवखलु ऋत्विग्भ्यः प्रयच्छति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११