मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २१, ऋक् ६

संहिता

ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ ।
शु॒क्राः प॑वध्व॒मर्ण॑सा ॥

पदपाठः

ऋ॒भुः । न । रथ्य॑म् । नव॑म् । दधा॑त । केत॑म् । आ॒ऽदिशे॑ ।
शु॒क्राः । प॒व॒ध्व॒म् । अर्ण॑सा ॥

सायणभाष्यम्

ऋभुर्न ऋभुर्भासमानो रथस्वामीव सयथा रथ्यं रथस्य नेतारं नवं स्तुत्यं कुशलं सारथिनं अग्र आधत्ते तद्वदस्मदीयेस्मिन् आदिशे स्वामिनि केतं प्रज्ञानं दधात स्थापयत । हे सोमाः योस्मभ्यं प्रयच्छति तस्मिन्नित्यर्थः । हे सोमाः अर्णसा उदकेन शुक्राः दीप्ताः सन्तः पवध्वं क्षरध्वम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११