मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २२, ऋक् १

संहिता

ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिनः॑ ।
सर्गा॑ः सृ॒ष्टा अ॑हेषत ॥

पदपाठः

ए॒ते । सोमा॑सः । आ॒शवः॑ । रथाः॑ऽइव । प्र । वा॒जिनः॑ ।
सर्गाः॑ । सृ॒ष्टाः । अ॒हे॒ष॒त॒ ॥

सायणभाष्यम्

एते पूयमानाः सोमासः सोमाः सृष्टाः अध्वर्युणा आशवो दशापवित्रादधोगमने शीघ्राः प्राहेषत प्रहेषन्ते । शीघ्रगमने दृष्टान्तद्वयं-आजौ सृष्टाः शीघ्रा रथाइव तथा उक्तलक्षणसर्गा वाजिनइव वेजनवन्तोश्वाइव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२