मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २२, ऋक् २

संहिता

ए॒ते वाता॑ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ ।
अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥

पदपाठः

ए॒ते । वाताः॑ऽइव । उ॒रवः॑ । प॒र्जन्य॑स्यऽइव । वृ॒ष्टयः॑ ।
अ॒ग्नेःऽइ॑व । भ्र॒माः । वृथा॑ ॥

सायणभाष्यम्

एतेसोमा उरवो महान्तो वाताइव वायवइव वृथा अनायासेन व्यानशुरित्युत्तरत्र संबन्धनीयम् । अथवाध्याहारेण निःसरन्तीति योज्यम् । तथा पर्जन्यस्य वृष्टयइव वर्षा यथा त थैव । किंच अग्नेरिव भ्रमाः भ्रमणाः ज्वालासंचाराइव ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२