मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २२, ऋक् ३

संहिता

ए॒ते पू॒ता वि॑प॒श्चित॒ः सोमा॑सो॒ दध्या॑शिरः ।
वि॒पा व्या॑नशु॒र्धियः॑ ॥

पदपाठः

ए॒ते । पू॒ताः । वि॒पः॒ऽचितः॑ । सोमा॑सः । दधि॑ऽआशिरः ।
वि॒पा । वि । आ॒न॒शुः॒ । धियः॑ ॥

सायणभाष्यम्

एते सोमासः सोमाः पूताः शुद्धाः विपश्चितः प्राज्ञाः दध्याशिरोदध्याश्रयणाः विपा प्रज्ञानेन धियोस्मदीयानि कर्माणि व्यानशुः व्याप्नुवन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२