मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २२, ऋक् ५

संहिता

ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या॑नशुः ।
उ॒तेदमु॑त्त॒मं रजः॑ ॥

पदपाठः

ए॒ते । पृ॒ष्ठानि॑ । रोद॑सोः । वि॒ऽप्र॒यन्तः॑ । वि । आ॒न॒शुः॒ ।
उ॒त । इ॒दम् । उ॒त्ऽत॒मम् । रजः॑ ॥

सायणभाष्यम्

एते सोमाः रोदसोर्द्यावापृथिव्योः पृष्ठानि विप्रयन्तो विविधं गच्छन्तो व्यानशुः व्याप्नुवन्ति । उतापिच इदमुत्तमं रजोद्युलोकं व्यानशुः आहुति- द्वारेणेतिभावः । रोदसोरित्यत्रान्तरिक्षोभिप्रेतः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२